श्री अङ्गारक कवचं

श्री अङ्गारक कवचं

|| श्री अङ्गारक कवचं ||

अस्य श्री अङ्गारक कवचस्य, कश्यप ऋषीः, अनुष्टुप् चन्दः, अङ्गारको देवता, भौम प्रीत्यर्थे जपे विनियोगः ||

ध्यानम्
रक्ताम्बरो रक्तवपुः किरीटी चतुर्भुजो मेषगमो गदाभृत् |
धरासुतः शक्तिधरश्च शूली सदा मम स्याद्वरदः प्रशान्तः ||

अथ अङ्गारक कवचम्
अङ्गारकः शिरो रक्षेत् मुखं वै धरणीसुतः |
श्रवौ रक्तम्बरः पातु नेत्रे मे रक्तलोचनः || 1 ||

नासां शक्तिधरः पातु मुखं मे रक्तलोचनः |
भुजौ मे रक्तमाली च हस्तौ शक्तिधरस्तथा ||2 ||

वक्षः पातु वराङ्गश्च हृदयं पातु रोहितः |
कटिं मे ग्रहराजश्च मुखं चैव धरासुतः || 3 ||

जानुजङ्घे कुजः पातु पादौ भक्तप्रियः सदा |
सर्वाण्यन्यानि चाङ्गानि रक्षेन्मे मेषवाहनः || 4 ||

फलश्रुतिः
य इदं कवचं दिव्यं सर्वशत्रुनिवारणम् |
भूतप्रेतपिशाचानां नाशनं सर्वसिद्धिदम् ||

सर्वरोगहरं चैव सर्वसम्पत्प्रदं शुभम् |
भुक्तिमुक्तिप्रदं नॄणां सर्वसौभाग्यवर्धनम् ||

रोगबन्धविमोक्षं च सत्यमेतन्न संशयः ||

|| इति श्री मार्कण्डेयपुराणे अङ्गारक कवचं सम्पूर्णम् ||